भारतीयविश्वविद्यालयानां सूचनाभाण्डारः

भारतीय विश्वविद्यालयानां सूचनाभाण्डारः रा. अ. मि. इत्यस्य प्रयोगः अस्ति। सर्वेषां भारतीयविश्वविद्यालयानाम् अन्येषाञ्च शैक्षिकसंस्थानानां पूर्णं ज्ञानमस्य लक्ष्यम्। अयं सूचनाभाण्डारः विश्वविद्यालयेषु पाठनीयानां प्रमुखविषयाणां पाठ्यक्रमाणां सन्दर्भनिर्देशिका च संदधाति। पञ्जीकृतानां संस्थानामन्तर्जालसङ्केताश्च अनेन ज्ञातुं शक्यते। सम्प्रति सूचनाभाण्डारे विश्वविद्यालयानुदानायोगेन मान्यताप्राप्तानां 155 विश्वविद्यालयानां सूचना उपलब्धा वर्तते। एतेषु संस्थानेषु पाठनीयानां विविधविषयाणां पाठ्यपुस्तकानां पाठ्यक्रमाणां च सूचना अस्मिन् भाण्डारे विद्यते। अत्र एतेषु विश्वविद्यालयेषु निर्धारितपुस्तकानां यान्त्रिकी निर्देशिका अपि अस्ति यस्यां लेखकस्य प्रकाशकस्य च नामादयः सम्मिलिताः सन्ति।

अस्मिन् पटले अन्वेषणमाध्यमेन विद्वांसः शिक्षाविदश्च राष्ट्रस्य कस्मिञ्चिदपि संस्थाने पाठनीयानां मुख्यविषयाणां पाठ्यक्रमाणां च अद्यतनं ज्ञानं प्राप्तुं शक्यन्ते। विश्वविद्यालयपरिषच्च अन्येषां विश्वविद्यालयानां पाठ्यक्रमान् संरचनाञ्च ज्ञातुं शक्यन्ते। अनेन ग्राम्ये नागरे च विश्वविद्यालययोः मध्ये सामञ्जस्ये सहायता भवेत्। भविष्ये च रा. अ.मि. इति स्वप्रचारप्रसारार्थं समुत्सुकानां कृते वा एतेषां सूचनाभाण्डाराणां सी.डी. माध्यमेन जङ्गममाध्यमेन मुद्रणमाध्यमेन वा विमोचनमपि कर्तुं शक्यते।