श्रव्य-दृश्यपाठः

रा.अ.मि. इत्यनेन अनुवादप्रशिक्षणकार्यक्रमेभ्यः श्रव्य-दृश्यसामग्रीणां निर्माणं क्रियते। अस्य उद्देश्यस्तु अनुवादाध्ययनस्येतिहासमारभ्य सिद्धान्तपर्यन्तं तस्य प्रारूपं चेत्यादि विविधानामायामानां समावेशः वर्तते। तदतिरिक्तं रा.अ.मि. इत्यस्य संचारमाध्यमः अनुवादाध्ययनस्य भारतीयं सिद्धान्तं तस्य गद्यशैलीं अनुवादे कूटमिश्रणं कूटपरिवर्तनम् अन्तःसङ्केतविज्ञानात्मकस्य अनुवादस्य शृङ्खलां च उत्पादयति। शृङ्खलाबद्धं प्रसारणं च कृत्वा इमाः अवधारणाः बृहत्तररूपेण उदाहरणैः दृष्टान्तैश्च रमणीयाः क्रियन्ते।