|
अनुवादमवलम्ब्य शैक्षणिकसंवादाः भारतीयभाषासु अनूदितानां पुस्तकानां उपलब्धेः आकलनं
नवीनानां अनुवादकानां कृते अनुवादप्रशिक्षणार्थं ज्ञानस्य प्रचारप्रसारार्थं च राष्ट्रिय
अनुवाद मिशन इत्यनेन कार्यशालाः संगोष्ठ्यः अभिविन्यासकार्यक्रमाश्च आयोज्यन्ते। एतेषु
कार्यक्रमेषु रा.अ.मि. इति विदुषः अनुवादकान् विशेषज्ञान् प्रकाशकान् च विमर्शार्थं
आमन्त्रयति।
|
|
Upcoming Events
|
» Translation and Knowledge Society, a three-day
three-in-one event from 07 to 09 March 2018.
» Workshop on Editing and Finalization of the Malayalam
translation: Grammer of Politics by Harold Laski at NTM, CIIL, Mysuru from 02 to
08 August 2018
» Workshop on Final Review of the Translation Equivalents
of Physics, Chemistry and Sociology for Manipuri at NTM, CIIL, Mysuru from 10 to
14 August 2018
» Workshop on Final Review of the Translation Equivalents
of Physics and Sociology for Maithili at NTM, CIIL, Mysuru from 10 to 14 August
2018
» Workshop on Final Review of the Translation Equivalents
of Sociology and Political Science for Santali at NTM, CIIL, Mysuru from 10 to 14
August 2018
» A 2-day National Seminar on Translatiion and Nation at
NTM, CIIL, Mysuru on 26 to 27 August 2018
|
|
|
रा.अ.मि. इति कार्यशालानां आयोजनं सम्पादकीयसहायतासमूहस्य अधिकाराणां कार्यान्वयनाय
22 भाषासु प्रत्येकस्य विषयस्य शब्दावलीं निर्मातुं च करोति। पुस्तकानामनुवादे पूर्णे
सति प्रत्येकस्याः भाषायाः विशेषज्ञैः संपादकीयसहायतासमूहेन वा अनुमोदिताः विशेषज्ञाः
एतासु कार्यशालासु मातृकायाः पुनःपरीक्षणं अनुवादकानां च मार्गदर्शनं कुर्वन्ति।
|
|
|
अनुवादसम्बद्धं शैक्षणिकविमर्शं प्रोत्साहयितुं रा.अ.मि. इति संगोष्ठीनामायोजनं करोति।
एतासु प्रस्तुतानि शैक्षणिकशोधपत्राणि समीक्षोपरान्तं संरक्ष्यन्ते। एतेषु शोधपत्रेषु
चितानि शोधपत्राणि रा.अ.मि. इत्यस्य षाण्मासिक्यां पत्रिकायां ट्रांसलेशन टुडे Translation
Today इति नाम्न्यां प्रकाश्यन्ते। एताः संगोष्ठ्यः रा.अ.मि. इति संस्थानं अनुवादकार्यमवलम्ब्य
शैक्षणिकविमर्शानां संरक्षणे सहायिकाः भवन्ति। अनुवादाध्ययने तत्सम्बद्धविषयेषु च अभिरुचिवतां
जनानां (विशेषतः छात्राणां शोधार्थिनां च कृते) सहायिकाः भवन्ति।
|
|
|
प्रतिभागिभ्यः अनुवादेन अनुवादसिद्धान्तेन ज्ञानपाठ्यानामनुवादेन च सम्बद्धं विषयं
अनुवादसाधनं शिक्षयितुं तान् सर्वतोभावेन समर्थतान् अनुवादकान् च कर्तुं राष्ट्रिय
अनुवाद मिशन इति विविधभाषासु अभिविन्यासकार्यक्रमान् आयोजयति। एतेषु अभिविन्यासकार्यक्रमेषु
प्रतिभागिनः महाविद्यालयेषु विश्वविद्यालयेषु अध्ययनरताः विविधविषयकाः विविधभाषिकपृष्ठभूमिवन्तः
छात्राः शोधच्छात्राश्च भवन्ति। महाविद्यालयानां विद्यालयानां वा शिक्षकाः स्वतन्त्राः
अनुवादकाः विविधव्यवसायैः संयुक्ताश्च एतेषु कार्यक्रमेषु युज्यन्ते। प्रतिभागिनां
चयनमनुवादकानां राष्ट्रियपञ्ज्यापि क्रियते।
एतेषु कार्यक्रमेषु अनुवादाध्ययनेन तत्सम्बद्धविषयेण वापि भारतीयभाषासु ज्ञान-पाठ्यानामनुवादेन
नियमितं सम्बद्धाः संसाधनपुरुषरूपेण आहूयन्ते। ज्ञान-पाठ्यानां यैरनुवादः कृतः अथ च
अभियान्त्रिकशब्दावलीनां विकासे रताः सन्ति तेपि रा.अ.मि इत्यस्य संसाधनपुरुषत्वेन
आहूयन्ते।
|
|
|
रा.अ.मि. स्वगतिविधीनां प्रचार-प्रसारार्थं अखिले भारतवर्षे आयोजितेषु पुस्तक-प्रदर्शनेषु
भागं गृह्णाति। अनूदितपुस्तकानां प्रकाशनात् परं अविलम्बेन मिशन इति प्रचारात्मकानां
कार्यक्रमाणां लेखक-सम्मेलनानां अनुवादक-सम्मेलनादीनामिव कार्यक्रमाणां आयोजनं कुर्यात्।
|
|
|
|