शब्दकोषाणां शब्दावलीनां च सूचनाभाण्डारः

शब्दकोषाणां शब्दावलीनाञ्च सूचनाभाण्डारः भारतीयभाषासु उपलब्धानामेकभाषिकाणां द्विभाषिकाणां बहुभाषिकाणाञ्च शब्दकोषाणां विविधविषयकानामुपलब्धशब्दावलीनां पर्यायकोषाणां विस्तृतं ज्ञानं लब्धुं सौविध्यं ददाति। निर्धारितेन कालेन रा. अ. मि. इत्यनेन निर्दिष्टं कार्यं सम्पादयितुं अनुवादकानां कृते द्विभाषिकः शब्दकोषः विषयविशिष्टा शब्दावली च सुलभा अपेक्षितास्ति। एताः विषयशब्दावल्यः अनुवादकानां कृते मानकशब्दानां प्रयोगे सहायकाः स्युः।