अनुक्रमणी-सूचनाभाण्डारः

अधिदेशः

भारते अनुवादसम्बद्धानां सर्वेषां गतिविधीनां निष्पादनालयत्वेन अवस्थानम्।
बडौदास्थितस्य भाषासंशोधनकेन्द्रस्य प्रो. जी.एन.देवी महोदयः डाटाबेस इति सूचनाभाण्डारस्य आरेखने योगदानार्थं सूचनाभाण्डारप्रदानार्थं च धन्यवादार्हाः सन्ति।

ग्रन्थानुक्रमणी कथम् ?

ग्रन्थानुक्रमणी पुस्तकानां सुव्यवस्थितमध्ययनपूर्विका विवरणी भवति। इयं शीर्षकानां सूची भवति यस्यां विषयस्य भाषायाः कालावधेः कस्मिंश्चिद् वा विषये सूचना च भवितुमर्हति। अस्याः अनुक्रमणिकायाः प्रकृतिः चयनात्मिका वर्णनात्मिका वा भवितुमर्हति।

अस्याः ग्रन्थानुक्रमणिकायाः निर्माणस्य लक्ष्यः केनचिदपि विषयेण सम्बद्धानां सूचनानां एकत्रीकरणं ताश्च जिज्ञासून् जनान् प्रति सहजमार्गेण सम्प्रेषणं चास्ति। एतासां सूचनानां सम्बन्धः केनचित् पुस्तकेन तत्सम्बद्धेन वा उत्पादेन सह स्यात्। अतः ग्रन्थानुक्रमणी पुस्तकानामितिहासविषये सूचयति।

अनुवाद-ग्रन्थानुक्रमण्याः विकासविषये ज्ञातुं अत्र स्पृशतु
  स्रोतांसि
  » अनुकृति (भा.भा.सं. – साहित्य अकादमी नेशनल बुक ट्रस्ट इति च)
  » भाषा संशोधन केन्द्र, बडौदा
  » ब्रिटिश लाइब्रेरी ओरियण्टल एण्ड इण्डिया ऑफिस
  » विभिन्नप्रकाशकानां पुस्तकसूची
  » केन्द्रीय सन्दर्भ पुस्तकालय, कोलकाता
  » भारतीयसाहित्यस्य राष्ट्रिया ग्रन्थसूची (एन.बी. आइ. एल.)
  » साउथ एशियन यूनियन पुस्तक-सूची (शिकागो विश्वविद्यालयस्य दक्षिण-एशियाई विभागस्य पुस्तकालयः)
  » यूनेस्को
  » युनिवर्सिटी ऑफ इलिनौए, अर्बाना-शैमपेन सम्प्रति रा.अ.मि. अधिकाधिकेभ्यः स्रोतेभ्यः सूचनाः संकलीकृत्य अंकीकृत्य सूचनाभाण्डागारे संकलयिष्यति।

ग्रन्थानुक्रमणिकायाः विशिष्टा शैली

ग्रन्थानुक्रमणिकायाः शैली विविधस्रोतेषु विविधा भवति।

प्रमुखरूपेण प्रयुक्ता शैली द्विविधा प्रयुज्यते एका एम.एल.ए. (मोडर्न लैंग्वेज एसोशिएसन) इति, ए.पी.ए. (अमेरिकन साइकोलोजिकल एसोसिएशन) इति च। मोडर्न लैंग्वेज एसोशिएसन इत्यस्य प्रारूपं विविधविषयेषु शोध-स्रोतसां कृते ग्रन्थानुक्रमणिकानां कृते च बृहद्रूपेण प्रयुज्यते। राष्ट्रिय अनुवाद मिशन इत्यनेन इदमेव प्रारूपं प्रयुज्यते यत्र विशिष्टा संख्यात्मिका अभिज्ञानप्रणाली प्रयुक्ता अस्ति।

रा.अ.मि. इत्यनेन संवर्द्धितायाः ग्रन्थानुक्रमणिकायाः वैशिष्ट्यम्

रा.अ.मि. इत्यनेन संवर्द्धिता ग्रन्थानुक्रमणी साहित्यिकीषु साहित्यिकेतराषु च विधासु केन्द्रिता अस्ति। तदतिरिक्तं भारतीयभाषासु अष्टमानुसूच्यामुल्लिखितासु अनुल्लिखितासु वा अनूदितानां शीर्षकानामपि संकलने अस्य प्रयासः।

रा.अ.मि. इत्यस्य कार्यसूच्यां भारतीयभाषातिरिक्तानामपि भाषाणां भारतीयभाषासु अनूदितानामपि संस्करणानामपि सूचनानां संकलनं अस्यां प्रक्रियायां सम्मिलितमस्ति।

रा.अ.मि. इति भारतीयभाषासु अनूदितांनां पुस्तकानां कृते भा.मा.अ.सं. (भारतीय मानक अनुवाद संख्या) इति नामा विशिष्टाभिज्ञानसंख्याप्रदानार्थं कृतप्रस्तावः अस्ति। इयं संख्या भा.मा.अ.सं. ISTN इति नाम्ना भविष्यति। अस्याः संख्यायाः संरचनं विकासश्च विशेषतया विविधासु भारतीयभाषासु प्रकाशितानामनूदितानां संस्करणानां परिज्ञानाय भविष्यतिष। एभिः प्रयासैः शोधार्थिनः छात्राः ज्ञानाभिलाषिणो वा कासुचिदपि भाषासु अनूदितानां पुस्तकानां संख्याः तासां विषयान् प्रकाशनवर्षं च ज्ञातुं साहाय्यं लप्स्यन्ते।


भारतीय अनुवाद मिशन इत्यनेन अयं सूचनाभाण्डारः अन्तर्जाले स्थापितः स्यात् येन बृहत्तरा अभिगम्यता भवेत्। नवीनसूचनयापि अस्मिन् सूचनाभाण्डारे परिवर्द्धनस्यावसरं प्रदास्यते।

यदि भवन्तः सूचनाभाण्डारे अनुपलब्धस्य कस्यचिदपि अनूदितसंस्करणस्य विषये जानन्ति चेत् रा.अ.मि. इत्यस्य सूचनाभाण्डारे संकलय्य सहयोगं कुर्वन्तु। भवन्तः प्रयोक्तापञ्जिकां निर्माय अनुवादविषये सूचनां पञ्जीकृतां कुर्वन्तु। भवन्तः इयं सूचना ntmciil@gmail.com इति ई-मेल माध्यमेनापि प्रेषयितुं शक्नुवन्ति यया सूचनाभाण्डारस्य परिवर्द्धनं रा.अ.मि. इत्यनेन करिष्यते। यदि भवन्तः प्रकाशकाः सन्ति तर्हि प्रयोक्ता-निवेशकस्य इनपुट इत्यस्य प्रयोगं कृत्वा स्वप्रकाशितस्य नवीनतमस्य अनूदितपुस्तकस्य सूचना अस्मिन् भाण्डारे सन्निवेशयितं शक्नुवन्ति। इयं सूचना भवन्तः ntmciil@gmail.com इति ई-मेल माध्यमेनापि प्रेषयितुं शक्नुवन्ति यया सूचनाभाण्डारस्य परिवर्द्धनं रा.अ.मि. इत्यनेन करिष्यते।

ग्रन्थसूची-अन्वेषणम्

भारतीयभाषासु अनूदितानां केषांचिदपि शीर्षकाणां विषये अत्रान्विषतु।