शब्दकोषाः

अनुवादसाधनतया उच्चस्तरीयाणां शब्दकोषाणां पर्यायकोषामाञ्च निर्माणं रा.अ.मि. इत्यस्य प्राथमिकं लक्ष्यमस्ति। द्विभाषिकाणां ई-कोषाणां च निर्माणं 22 भारतीयभाषासु क्रियते। लोकोक्तयः, सामान्यसन्दर्भितवाक्यविन्यासः, उदाहरणानां भूयस्त्वं अधिकाधिकप्रचलितानां शब्दानां प्रयोगः व्याकरणसम्मतः प्रयोगः इत्यादयः एतेषां शब्दकोषाणां वैशिष्ट्यमस्ति।

रा.अ.मि. इति विविधभारतीयभाषासु शब्दकोषाणां निर्माणे संलग्नः अस्ति। एतेषु द्विविधं कोषमधिकृत्य कार्यं सम्प्रति क्रियते –
   अ)     द्विभाषिकः आधारशब्दकोषः
   आ)    द्विभाषिकः ई-शब्दकोषः

द्विभाषिकः आधारशब्दकोषः

मैसूरनगरस्थितेन भारतीयभाषासंस्थानेन युनाइटेड किंग्डम इति देशावस्थितेन लाँग्मैन पीयरसन ग्रुप इत्यनेन च संयुक्तरूपेण 2006 तमस्य वर्षस्य मई-जून इति मासात् शब्दकोषाणां निर्माणस्य प्रक्रिया आरब्धा। एते शब्दकोषाः अनुवादकार्याणां साधनत्वेन प्रकल्पिताः। 2008 तमे वर्षे रा. अ.मि. इत्यस्य स्थापनया सह इयं परियोजना रा.अ.मि. इत्यस्य अधीने समागता। एतेषां द्विभाषिकशब्दकोषाणां निर्माणं ब्रिटिश नेशनल कार्पस इति प्रचलितानामाधारशब्दानां आंग्लादाङ्ग्लानां कोषेन प्रेरितं यस्मिन् आङ्ग्लकोषे अधिकाधिकप्रयुक्ताः 14000 शब्दाः वाक्यांशाश्च सन्ति

लाँग्मेन इत्यस्य समन्वये रा.अ.मि. मिशन इत्यनेन निर्मितानामाधारशब्दकोषाणां चरणबद्धरीत्या प्रकाशनस्य योजना अस्ति। सम्प्रति षण्णां शब्दकोषाणां बांग्ला, कन्नड, मलयालम, ओडिया, तमिल इति भाषाणां प्रकाशनं सञ्जातम्।(तालिका अधः प्रदत्ता)। पंजाबी, गुजराती, तेलुगु, उर्दू इत्यादीनां शीघ्रमेव प्रकाशनस्य योजना च अस्ति।
 
पीयर्सन एडुकेशन इत्यनेन 2011-2012 तमे वर्षे प्रकाशितानां शब्दकोषाणां तालिका-

  1. लाँग्मैन सी.आइ.आइ.एल. आङ्ग्ल-आङ्ग्ल-हिन्दी शब्दकोष.
  2. लाँग्मैन सी.आइ.आइ.एल. आङ्ग्ल-आङ्ग्ल-बांग्ला शब्दकोष.
  3. लाँग्मैन सी.आइ.आइ.एल. आङ्ग्ल-आङ्ग्ल-कन्नड शब्दकोष.
  4. लाँग्मैन सी.आइ.आइ.एल. आङ्ग्ल-आङ्ग्ल-ओडिया शब्दकोष.
  5. लाँग्मैन सी.आइ.आइ.एल. आङ्ग्ल-आङ्ग्ल-मलयालम शब्दकोष.
  6. लाँग्मैन सी.आइ.आइ.एल. आङ्ग्ल-आङ्ग्ल-तमिल शब्दकोष.

रा. अ.मि. इति भारतीयसंविधाने अष्टमानुसूच्यां निर्दिष्टानां 22 भाषाणां शब्दकोषाणां निर्माणं कृत्वा एतत् कार्यमुन्नयति।

द्वैभाषिकाः ई-शब्दकोषाः

रा.अ.मि. इति डारलिंग किण्डर्सले (इण्डिया) प्राइवेट लि. इत्यनेन सह परामर्शसेवार्थमनुबन्धः कृतः। अथ च, पीयरसन एडुकेशन इत्यस्य लाँग्मेन एडवान्स बाइलिंग्वल फ्रेमवर्क इत्यस्य एक्स.एम.एल. डाटासेट इत्यस्य प्रयोगार्थमपि अनुबन्धः कृतः। रा.अ.मि. इत्यस्य कृते लाँग्मेन यूनाइटेड किंगडम इति संस्थानेन आइ.डी.बी.ए. इति नाम्नि सर्वर इति अन्तर्जालवितरके A इति वर्णमारभ्य Z इति वर्णपर्यन्तं LABF Dataset इति उत्थापितः अपलोड इति कृतः। LABF Dataset इत्यस्य प्रयोगः शब्दकोष-निर्माण-व्यवस्था Dictionary Production System (DPS) इति माध्यमेन भविष्यति। अस्याः व्यवस्थायाः निर्माणं मूलतः लाँग्मेन इत्यनेन कृतं विपणनञ्च फ्रांसदेशावस्थितेन आइ.डी.एम. IDM इत्यनेन क्रियते। रा.अ.मि. इत्यस्य द्वैभाषिकाः ई-शब्दकोषाः अधोलिखितान् शब्दकोषानाधारीकृत्य सन्ति-

  » Longman Dictionary of Contemporary English
  » Longman Advanced American Dictionary
  » Longman Dictionary of English and Culture
  » Longman Business Dictionary & Longman Dictionary of English Language
  » Information from the Longman Corpus Network

रा.अ.मि. इति विविधं कल्पं सम्पद्येतुं पीयरसन एडुकेशन इत्यनेन सह सम्पर्के वर्तते।